अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा ३१.
इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम् ३१.
जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन॥ ३१.
नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय ३१.
श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः ३२.
श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत् ३२.
ततस्ते राजवचनात्कालनेमि मुखागताः ३२.
यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम् हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते॥ ३२.
को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः॥ ३२.
मा विषीद महाराज वयं जेष्यामहे सुरान् ३२.
सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम् ३२.
भृशं संताडिता भेरी कंपयामास सा जगत् ३२.
निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि ३२.
कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः ३२.
चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते ३२.
एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः ३२.
ततश्चचाल वसुधा देवी सवनकानना ३२.
तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत् ३२.
कालनेमिमुखं पार्थ अदृश्यत महद्बलम् ३२.
अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम् ३२.
पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि ३२.
असुरैर्वध्यमाने तु पावकैरिव काननम् ३२.
ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः ३२.
अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः ३२.
भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत ३२.
एष कालानलप्रख्यो मयूरं समुपस्थितः ३२.
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः ३२.
कालनेमिर्महेन्द्रेण संयुगे समयुज्यत ३२.
कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः ३२.
प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह ३२.