विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा ३१.
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ३१.
पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम् ३१.
गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः ३१.
घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः ३१.
विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः ३१.
परिवार्य शतैयाति यादोभिर्विविधैर्वृतः ३१.
गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः ३१.
बहुशीर्षं महाघोरमेकपादं बहूदरम् ३१.
तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः ३१.
राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा ३१.
नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा ३१.
सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः ३१.
एवं सैन्यसमोपेत उत्तरं तटमागतः ३१.
स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम् ३१.
स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा ३१.
वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः ३१.
ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत् ३१.
ये त्वां कालं न जानंति मर्त्या गृहरता इव ३१.
वीराणामुचितं त्वेतत्कीर्तिदं च महाजने ३१.
मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम् ३१.
प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम् ३१.
यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया ३१.
शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि ३१.
इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः ३१.
व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम् ३१.
नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति ३१.
एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत ३१.
अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम् ३१.
विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः ३१.