उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च ३०.
जयं महाजयं चैव नागौ ज्वलनसूनवे ३०.
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ३०.
नानावीर्यान्महावीर्यान्नानायुधविभूषणान् ३०.
मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो ३०.
प्रभावती विशालाक्षी गोपाला गोनसा तथा ३०.
भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी ३०.
विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला ३०.
पूतना रोदना त्वामा कोटरा मेघवाहिनी ३०.
खटखेटी दहदहा तथा धमधमा जया ३०.
शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा ३०.
एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ ३०.
वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः ३०.
नानाभरणवेषास्ता नानामूर्तिधरास्तथा ३०.
ततः स शुशुभे श्रीमान्गुहो गुह इवापरः ३०.
ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः ३०.
ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम् ३१.
एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन् ३१.
शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत् ३१.
गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम् ३१.
योगोयोग इति प्राहुराज्ञया शरजन्मनः ३१.
अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा ३१.
चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे ३१.
तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत ३१.
योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम् ३१.
बलमोजः कृपा चव बद्धा करयुगं तथा ३१.
तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः ३१.
निर्मितेन हरेणैव स्वयमीशेन लीलया ३१.
अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम् ३१.
सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः ३१.