ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ३०.
उमा ददौ चारजसी वाससी सूर्यसप्रभा ३०.
मही महानदी तस्य चाक्षमालां ससागरा ३०.
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ३०.
छागं च वरुणो राजा बलवीर्यसमन्वितम् ३०.
चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान् ३०.
चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम् ३०.
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ३०.
यमः प्रादादनुचरौ यमकालोपमौ तदा ३०.
सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ ३०.
कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ३०.
ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ ३०.
स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः ३०.
ददौ महेशपुत्राय वासवः परवीरहा ३०.
वर्धनं बंधनं चैव आयुर्वेदविशारदौ ३०.
बलं चातिबलं चैव महावक्त्रौ महाबलौ ३०.
घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः ३०.
हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै ३०.
उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ ३०.
संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ ३०.
उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च ३०.
जयं महाजयं चैव नागौ ज्वलनसूनवे ३०.
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ३०.
नानावीर्यान्महावीर्यान्नानायुधविभूषणान् ३०.
मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो ३०.
प्रभावती विशालाक्षी गोपाला गोनसा तथा ३०.
भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी ३०.
विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला ३०.
पूतना रोदना त्वामा कोटरा मेघवाहिनी ३०.
खटखेटी दहदहा तथा धमधमा जया ३०.