अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम् ३०.
आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ ३०.
विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा ३०.
विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः ३०.
दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा ३०.
लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः ३०.
आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम् ३०.
वरुणो धनदश्चैव यमः सानुचरस्तथा ३०.
धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः ३०.
ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम् ३०.
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ३०.
उमा ददौ चारजसी वाससी सूर्यसप्रभा ३०.
मही महानदी तस्य चाक्षमालां ससागरा ३०.
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ३०.
छागं च वरुणो राजा बलवीर्यसमन्वितम् ३०.
चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान् ३०.
चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम् ३०.
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ३०.
यमः प्रादादनुचरौ यमकालोपमौ तदा ३०.
सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ ३०.
कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ३०.
ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ ३०.
स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः ३०.
ददौ महेशपुत्राय वासवः परवीरहा ३०.
वर्धनं बंधनं चैव आयुर्वेदविशारदौ ३०.
बलं चातिबलं चैव महावक्त्रौ महाबलौ ३०.
घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः ३०.
हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै ३०.
उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ ३०.
संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ ३०.