श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम् ३०.
प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन् ३०.
न शर्म लभते सेना तस्मात्त्वमभिषेचय ३०.
अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि ३०.
सर्वतीर्थान्तरस्थानं तथार्णवमहीजले ३०.
सर्वतीर्थमयस्तद्वन्महीसागरसंगमः ३०.
तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम् ३०.
तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः ३०.
यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम् ३०.
एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ ३०.
कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान् ३०.
ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम् ३०.
अत्राभिषेकं ते वीर करिष्यामः समादिश ३०.
अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः ३०.
जुहुवुर्मंत्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः ३०.
अन्ये च शतशस्तत्र मुनयो वेदपारगाः ३०.
यदग्निकुण्डमध्यस्थो लिंगमूर्तिर्व्यदृश्यत ३०.
एतत्संदर्शनार्थाय लिंगमूर्तिरभूद्विभुः ३०.
सर्वपापापहं पार्थ सर्वकामफलप्रदम् ३०.
दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने ३०.
अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम् ३०.
आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ ३०.
विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा ३०.
विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः ३०.
दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा ३०.
लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः ३०.
आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम् ३०.
वरुणो धनदश्चैव यमः सानुचरस्तथा ३०.
धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः ३०.
ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम् ३०.