त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः २९.
शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा २९.
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च २९.
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते॥ २९.
दानवानां विनाशाय देवानामर्थसिद्धये २९.
इत्युक्ते सुमहानादः सुराणामभ्यजायत २९.
जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन् २९.
तेन शब्देन महता विस्मिता नगनंदिनी २९.
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः २९.
गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम् २९.
एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत् २९.
वृषभं तत आरुह्य देव्या सह समुत्सुकः २९.
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् २९.
अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी २९.
अपूजयदमेयात्मा पितरं मातरं च ताम् २९.
चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ २९.
देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता २९.
ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा २९.
स्वाहा ममेति च प्राह पावकश्च ममेति च २९.
चक्रुस्ते कलहं घोरं विवदंतः परस्परम् २९.
ततस्तान्प्रहसन्नाह विवादो युज्यते न च २९.
ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत् २९.
रोहिण्याश्चानुजा स्कंद स्पर्धमानाभिजित्खला २९.
तु. लक्ष्मीनारायणसंहिता [https://sa.wikisource.org/s/1v7e २.३२.१४] ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापय प्रभो २९.
नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम् तदग्नेः प्रियतां देहि सहवासं सदैव च॥ २९.
हव्यं कव्यं च यत्किंचिद्द्विजा होष्यंति पावके॥ २९.
तत्ते नाम्ना प्रदास्यंति वासः सार्धं भवेत्तव २९.
स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि २९.
एवमेवेति तानाह स्कंदस्तद्धि सुदुर्लभम् अभ्यषिंचन्गिरौ तस्मिन्योगिनामादिपत्यके॥ २९.
योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा २९.