प्रच्युताः सहसा भांति दिवस्तारागणा इव २९.
देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो २९.
तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम् २९.
वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः २९.
शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम् २९.
तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः २९.
तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ २९.
ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन् २९.
या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः २९.
आया पलाला मित्रा च सप्तैताः शिशुमातरः २९.
स्कंदप्रसादजः पुत्रो लोहिताक्षो भयंकरः २९.
पूजनीयः सदा भक्त्या सर्वापस्मारशांतिदः २९.
लोहितांबरसंवीतं त्रैलोक्यस्यापि सुप्रभम् २९.
श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै २९.
भवानिंद्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै॥ २९.
किमिंद्रः सर्वलोकानां करोतीह सुरोत्तमाः २९.
इंद्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् २९.
दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति २९.
असूर्ये च भवेत्सूर्यस्तथाऽचंद्रे च चंद्रमाः २९.
एतदिंद्रेण कर्तव्यमिंद्रो हि विपुलं बलम् २९.
त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः २९.
शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा २९.
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च २९.
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते॥ २९.
दानवानां विनाशाय देवानामर्थसिद्धये २९.
इत्युक्ते सुमहानादः सुराणामभ्यजायत २९.
जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन् २९.
तेन शब्देन महता विस्मिता नगनंदिनी २९.
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः २९.
गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम् २९.