संस्काररहितं जन्म यतश्च पशुवत्स्मृतम् २९.
ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः २९.
ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम् २९.
एकग्रीवं चैककायं कुमारं स व्यलोकयत् २९.
दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच २९.
ततस्तं पावकः पार्थ आलिलिंग चुचुंब च २९.
स च शक्तिं समादाय नमस्कृत्य च पावकम् २९.
व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत् २९.
बिभेद तरसा शक्त्या शतयोजनविस्तृतम् २९.
चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः २९.
भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा २९.
एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन् २९.
स संक्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव २९.
तच्च त्राणं सदा कार्यं प्राणैः कंठगतैरपि २९.
धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात् २९.
एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात् २९.
उग्रं तच्च महावेगं देवानीकं दुरासदम् २९.
तस्य नादेन महता समुद्धूतोदधिप्रभम् २९.
जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः २९.
अदहद्देवसैन्यानि चेष्ट मानानि भूतले २९.
प्रच्युताः सहसा भांति दिवस्तारागणा इव २९.
देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो २९.
तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम् २९.
वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः २९.
शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम् २९.
तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः २९.
तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ २९.
ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन् २९.
या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः २९.
आया पलाला मित्रा च सप्तैताः शिशुमातरः २९.