पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतंद्रितः
ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून्
स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान्
प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेंद्रियः 1.3.2.6.
मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती
कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः
क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम्
गृहापहारी कुर्वीत देवस्यायतनं नवम्
परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः
पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती
त्रिःशोणाचलनाथेति निनदन्ननघो भवेत्
अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात्
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः 1.3.2.6.
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः
एष दक्षिणकैलासो योसावरुणपर्वतः
अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम्
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम्
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः
तस्य चांद्रायणशतं भवेत्सांतपनायुतम्
अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम्
इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम्
अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः
गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः
चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत्
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम्
प्रथमायां तिथौ देवस्योपहारं समर्पयेत्
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत्
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत्