यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा २९.
ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः २९.
एतदंतमालोक्य चिकीर्षंती मनीषितम् २९.
चिक्रीड वह्निजायापि यथा ते कथितं मया॥ २९.
उपकारमिमं ताभिः स्मरंतीभिश्च भारत २९.
ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः २९.
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः २९.
अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन २९.
त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः २९.
त्वं परं परमं तेजो मंगलानां च मंगलम् २९.
त्वं सावित्रीमयो देव सर्वत्रैवापराजितः २९.
माली मौली पताकी च जटी मुंडी शिखंड्यपि २९.
गवांपुत्रः सुरारिघ्नः संभवो भवभावनः २९.
द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः २९.
त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः २९.
हेमगर्भो महागर्भो जयश्च विजयेश्वरः २९.
महासेनो महातेज वीरसेनश्च भूपतिः २९.
शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः २९.
कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः २९.
पिप्पली शीघ्रगो रौद्री गांगेयो रिपुदारणः २९.
निग्रहो निग्रहाणां च नेता त्वं सुरनंदनः २९.
कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः २९.
अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसंभवः २९.
अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः २९.
अचिंत्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः २९.
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा २९.
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता २९.
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् २९.
विघ्नकारीणि तद्गेहे यत्रैव संस्तुवंति माम् २९.
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् २९.