स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया २९.
तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम् २९.
तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत् २९.
न चेत्करिष्यसे देव मृतां मामुपधारय २९.
सर्वाभिः सहिता प्राप्ता ताश्च यास्यंत्यनुक्रमात् २९.
ततः स कामसंतप्तः संबभूव तया सह २९.
चिंतयंती ममेदं चेद्रूपं द्रक्ष्यंति कानने २९.
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् २९.
शरस्तंबैः सुसंपृक्तं रक्षोभिश्च पिशाचकैः २९.
प्राक्षिपत्कांचने कुंडे शुक्रं तद्धारणेऽक्षमा २९.
पत्नीसरूपतां कृत्वा कामयामास पावकम् २९.
तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च २९.
कुंडेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया २९.
आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम् २९.
भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते २९.
कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति २९.
शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम्॥ २९.
कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने॥ २९.
यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसंनिभाः भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने॥ २९.
सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम् २९.
यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा २९.
ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः २९.
एतदंतमालोक्य चिकीर्षंती मनीषितम् २९.
चिक्रीड वह्निजायापि यथा ते कथितं मया॥ २९.
उपकारमिमं ताभिः स्मरंतीभिश्च भारत २९.
ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः २९.
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः २९.
अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन २९.
त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः २९.
त्वं परं परमं तेजो मंगलानां च मंगलम् २९.