न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते २९.
पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम् २९.
वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम् २९.
तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः २९.
संसारी न पुनर्भूयान्महेश्वरवचो यथा २९.
वाराणसीं च केदारं किं स्मरंति वृथैव ते २९.
शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि २९.
संस्तूय विविधैर्वाक्यैर्मातरं समभाषत २९.
शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले २९.
ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे २९.
पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः २९.
ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यंबकः॥ २९.
सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया २९.
पुरुषाणां प्रसादेन मुच्यंते भवसागरात् २९.
पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने २९.
ततो वर्षसहस्रेषु देवास्त्वरितमानसाः २९.
द्वारि स्थितं प्रतिहारं वंचयित्वा च पावकः २९.
ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम् २९.
यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम् २९.
भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः २९.
विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः २९.
वह्निश्च व्याकुलीभूतो गंगायां मुमुचे सकृत् २९.
जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः २९.
सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मंत्रवीर्यतः २९.
गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत २९.
पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः २९.
साध्वीः पत्नीर्द्विजेंद्राणामकामाः कामयाम्यहम् २९.
कृत्वैतन्नश्यते कीर्तिर्यावदाचंद्रतारकम् २९.
संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः २९.
ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम् २९.