अस्माद्भूधरजा देहसंपर्कात्त्वं ममाज्ञया २९.
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने २९.
गच्छ विंध्याचले तत्र सुरकार्यं करिष्यति २९.
पांचालोनाम यक्षोऽयं यक्षलक्षपदानुगः २९.
इत्युक्ता कौशिकी देवी तथेत्याह पितामहम् २९.
सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः २९.
मुहुः स्वं परिनिंदंती जगाम गिरिशांतिकम् २९.
रुरोध वीरको देवीं हेमवेत्रलताधरः २९.
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे २९.
प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः २९.
कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम् २९.
भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज २९.
नगाधिराजतनया पार्वती रुद्रवल्लभा २९.
न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत २९.
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः २९.
अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम् २९.
संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा २९.
अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः २९.
मम गात्रस्थितिभ्रांत्या मा शंकां पुत्र भावय २९.
मया शप्तोऽस्यविदिते वृत्तांते दैत्यनिर्मिते २९.
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते २९.
पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम् २९.
वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम् २९.
तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः २९.
संसारी न पुनर्भूयान्महेश्वरवचो यथा २९.
वाराणसीं च केदारं किं स्मरंति वृथैव ते २९.
शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि २९.
संस्तूय विविधैर्वाक्यैर्मातरं समभाषत २९.
शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले २९.
ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे २९.