आजगाम स च स्थानं तदा त्रिपुरघातिनः २९.
तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत् २९.
भुजंगरूपं संत्यज्य बभूवाथ महासुरः २९.
कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम् २९.
चक्रे भगांतरे दैत्यो दंतान्वज्रोपमान्दृढान् २९.
कृत्वोमारूपमेवं स स्थितो दैत्यो हरांतिके २९.
मन्यमानो गिरिसुतां सर्वै रवयवांतरैः २९.
या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि २९.
प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि २९.
यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम् २९.
इत्युक्तः शंकरः शंकां किंचित्प्राप्यवधारयत् २९.
अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम २९.
नापश्यद्वामपार्श्वे तु तस्यांकं पद्मलक्षणम् २९.
बुद्धा तां दानवीं मायां किंचित्प्रहसिताननः २९.
स रुदन्भैरवान्रावानवसादं गतोऽसुरः २९.
हते च मारुतेनाशुगामिना नगदेवता २९.
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना २९.
मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम् २९.
तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता २९.
एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनंतरम् २९.
पश्चात्तापं समश्रित्य तया देव्या विसर्जितः २९.
प्रोद्धूतबललांगूलदंष्ट्रोत्कट गुहामुखः २९.
तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा २९.
आजगामाश्रमपंद संपदामाश्रयं ततः २९.
किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते २९.
तपसा दुष्करेणाप्तः पतित्वे शंकरो मया २९.
स्यामहं कांचनाकारा वाल्लभ्येन च संयुता २९.
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः २९.
ततस्तस्याः शरीरात्तु स्त्री सुनीलांबुजत्विषा २९.
नानाभरणपूर्णांगी पीतकौशेयवासिनी २९.