नाहं मुष्णामि नयने नेत्रहंता भवान्भव २७.
मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन् २७.
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम् २७.
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः २७.
न तत्त्वज्ञासि गिरिजे नाहं निंदापरस्तव २७.
विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया २७.
अस्मादृशानां कृष्णांगि प्रवर्तंतेऽन्यथा गिरः २७.
नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते २७.
दीनेनाप्यपमानेन निंदिता नमि विक्रियाम् २७.
इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता २७.
अवष्टब्धावथ क्षिप्त्वा पादौ शंकरपाणिना २७.
तस्यां व्रजन्त्यां कोपेन पुनराह पुरांतकः २७.
हिमाचलस्य श्रृंगैस्तैर्मेघमालाकुलैर्मनः २७.
काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम् २७.
संक्रांतं सर्वमेवैतत्तव देवी हिमाचलात् २७.
कोपकंपितधूम्रास्या प्रस्फुरद्दशनच्छदा २७.
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेवहि २७.
हृत्कालुष्यं शशांकात्ते दुर्बोधत्वं वृषादपि २७.
श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा २७.
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् २८.
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा २८.
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् २८.
नित्यं शैलाधिराजस्य देवता त्वमनिंदिते २८.
तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना २८.
त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम् २८.
रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते २८.
तपस्तेपे गिरिसुता पुत्रेण परिपालिता २८.
यथा न काचित्प्रविशेद्योषिदत्र हरांतिके २८.
शीघ्रमेव करिष्यामि ततो युक्तमनंतरम् २८.
मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः २८.