प्रणम्य सर्वभूतानि प्रार्थयाम्यस्मि दुष्करम् २७.
क्रीडितुं वीरके याते ततो देवी च पार्वती २७.
ततो गिरिसुताकण्ठे क्षिप्तबाहुर्महेश्वरः २७.
स हि गौरतनुः शर्वो विशेषाच्छशिशोभितः २७.
शरीरे मम तन्वंगी सिते भास्यसितद्युतिः २७.
चंद्रज्योत्स्नाभिसंपृक्ता तामसी रजनी यथा २७.
इत्युक्ता गिरिजा तेन कण्ठं शर्वाद्विमुच्य सा २७.
स्वकृतेन जनः सर्वो जनेन परिभूयते २७.
तपोभिर्दीप्तचरितैर्यत्त्वां प्रार्थितवत्यहम् २७.
नैवाहं कुटिला शर्व विषमा न च धूर्जटे २७.
नाहं मुष्णामि नयने नेत्रहंता भवान्भव २७.
मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन् २७.
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम् २७.
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः २७.
न तत्त्वज्ञासि गिरिजे नाहं निंदापरस्तव २७.
विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया २७.
अस्मादृशानां कृष्णांगि प्रवर्तंतेऽन्यथा गिरः २७.
नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते २७.
दीनेनाप्यपमानेन निंदिता नमि विक्रियाम् २७.
इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता २७.
अवष्टब्धावथ क्षिप्त्वा पादौ शंकरपाणिना २७.
तस्यां व्रजन्त्यां कोपेन पुनराह पुरांतकः २७.
हिमाचलस्य श्रृंगैस्तैर्मेघमालाकुलैर्मनः २७.
काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम् २७.
संक्रांतं सर्वमेवैतत्तव देवी हिमाचलात् २७.
कोपकंपितधूम्रास्या प्रस्फुरद्दशनच्छदा २७.
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेवहि २७.
हृत्कालुष्यं शशांकात्ते दुर्बोधत्वं वृषादपि २७.
श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा २७.
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् २८.