क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते २७.
तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः २७.
तं श्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् २७.
तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया २७.
तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः २७.
मत्समीपमनुप्राप्ता मम लोकं वरानने २७.
विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे २७.
इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके २७.
केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः २७.
व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे २७.
विचित्रवाहनाश्चैव नानायुधधरास्तथा २७.
तान्दृष्ट्वा पार्वती प्राह कतिसंख्याभिधास्त्वमी॥ २७.
असंख्ये यास्त्वमी देवी असंख्येयाभिधास्तथा २७.
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु २७.
एते विशति मुदिता नानाहारविहारिणः मदाहाराः सर्वभक्ष्यास्तथान्ये चाप्यभोजनाः॥ २७.
गीतनृत्योपहाराश्च नानावाद्यरवप्रियाः २७.
मनःशिलेन कल्केन य एष च्छुरिताननः २७.
आकर्ण्याकर्ण्य ते देव गणैर्गीतान्महागुणान् २७.
सदाशिवशिवेत्येवं विह्वलो वक्ति यो मुहुः २७.
एनं विज्ञातुमिच्छामि किंनामासौ गणस्तव श्रीशंकर उवाच २७.
नानाश्चर्यगुणाधारः प्रतीहारो मतोंऽबिके देव्युवाच २७.
कदाहमीदृशं पुत्रं लप्स्याम्यानंददायकम् शर्व उवाच २७.
इत्युक्ता विजयां प्राह शीघ्रमानय वीरकम् २७.
एहि वीरक ते देवी गिरिजा तोषिता शुभा २७.
इत्युक्तः संभ्रमयुतो मुखं संमार्ज्य पाणिना २७.
तं दृष्ट्वा गिरिजा प्राह गिरामधुरवर्णया २७.
इत्युक्तो दंडवद्देवीं प्रणम्यावस्थितः पुरः २७.
चुचुंब च कपोले तं गात्राणि च प्रमार्जयत् २७.
एवं संकल्प्य तं पुत्रं लालयित्वा उमाचिरम् २७.
ततश्चिक्रीड मध्ये स गणानां पार्वतीसुतः २७.