पुत्रेत्युवाच तं देवी ततः संहृष्टमानसा २७.
पुत्रस्तवायं गिरिजे श्रृणु यादृग्भविष्यति २७.
यथाहं तादृशश्चासौ पुत्रस्ते भविता गुणैः २७.
तेषामामरणांतानि विघ्नान्येष करिष्यति २७.
विघ्निता विघ्नराजेन ते यास्यंति महत्तमः २७.
पुत्रस्य तव विघ्नेन समूलं तस्य नश्यति २७.
रौद्रसाहसिका ये च तेषां विघ्नं करिष्यति २७.
कृपालवो गतक्रोधास्तेषां विघ्नं हरिष्यति २७.
सविघ्नानि भिवष्यंति पूजयास्य विना शुभे २७.
ततो बृहत्तनुः सोऽभूत्तेजसा द्योतयन्दिशः यावत्तार कहंता वो भवेत्तावदयं प्रभुः॥ २७.
ततो विघ्नपतिर्देवैः संस्तुतः प्रमतार्तिहा २७.
पार्वती च पुनर्देवी पुत्रत्वे परिकल्प्य च २७.
सप्तर्षीनथ चाहूय संस्कारमंगलं तरोः २७.
त्वयैव दर्शिते मार्गे मर्यादां कर्तुमर्हसि २७.
यो वै निरुदके ग्रामे कूपं कारयते बुधः २७.
दशकूपसमावापी दशवापी समं सरः २७.
दशक्रतुसमः पुत्रो दशपुत्रसमो द्रुमः॥ २७.
एषैव मम मर्यादा नियता लोकभाविनी २७.
ततः कदाचिद्भगवानुमया सह मंदरे २७.
प्रकीर्णकुसुमामोदमहालिकुलकूजिते २७.
क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते २७.
तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः २७.
तं श्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् २७.
तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया २७.
तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः २७.
मत्समीपमनुप्राप्ता मम लोकं वरानने २७.
विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे २७.
इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके २७.
केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः २७.
व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे २७.