पिप्पलश्च सहस्रेण सन्नादश्च तथा बली २६.
महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा २६.
अग्निकः शतकोट्या वै कोट्याग्निमुख एव च २६.
सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः २६.
काकपादस्तता षष्ट्या षष्ट्या संतानको गणः २६.
नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात् २६.
पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः २६.
विश्वरूपस्तालकेतुः पंचाशच्च सिताननः २६.
विषादो यमहा चैव गणो भृंगरिटिस्तथा २६.
एते चान्ये च गणपा असंख्याता महाबलाः २६.
चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः २६.
अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः २६.
पातालांबरभूमिस्थाः सर्वलोकनिवासिनः २६.
तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे २६.
पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः २६.
तथा यमुनया चापांपतिना धृतच्छत्रया २६.
महोत्सवेन देवेशो गिरिस्थानं विवेश सः २६.
वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम् २६.
ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः २६.
ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा २६.
प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना २६.
सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः २६.
अत्र चिंता न कर्तव्या गिरिराज कथंचन २६.
ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम् २६.
ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम् २६.
रत्नासनसहस्राढ्यं शतयोजनविस्तृतम् २६.
ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः २६.
पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा २६.
दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम् २६.
ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत् २६.