अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे
देवस्वहारी दहने घोरघोरे परस्वहृत्
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून्
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः
परदाररतः पंगु बधिरः परनिंदकः 1.3.2.5.
अभ्यागतातिथित्यागी कपोलकंटको भवेत्
मर्यादाभेदको दासस्तटाकारामहृत्खरः
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम्
सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम्
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके
कृतोपवासः संपूज्य प्रयतः परमेश्वरम्
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन्
सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम्
गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम्
मासत्रयं समाराध्य श्रीशोणाचलशंकरम्
षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना 1.3.2.6.
परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेंद्रियः
माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः
गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा
पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः
अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती
धर्मनिंदाकरः शोणक्षेत्रे वर्षं व्रती वसन्