बबंध प्रणयोदारविस्फारितविलोचनः २६.
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत २६.
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति २६.
बबंध देवदेवस्यच स्वयमेव प्रमोदतः २६.
आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे २६.
वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः २६.
विना भस्म समाधाय कपाले रजतप्रभम् २६.
वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः २६.
ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः २६.
ततो देवं प्रणम्याह वीरकः करसंपुटी २६.
इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत् २६.
तत्रैक्षत महादेवः स्वरूपं स जगन्मयम् २६.
देवदेव महादेव त्रिपुरांतक शंकर २६.
महेश्वर यथा साक्षादपरस्त्वं महेश्वरः २६.
करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः २६.
धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत् २६.
देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः २६.
सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः २६.
अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा २६.
सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा २६.
स्पृहामतिर्धृतिर्बुद्धिर्मंथिर्ऋद्धिः सरस्वती २६.
धरणी धारणी वेला राज्ञी चापि च रोहिणी २६.
उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः २६.
सागरा गिरयो मेघा मासाः संवत्सरास्तथा २६.
हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः २६.
अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि २६.
दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च २६.
षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः २६.
सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च २६.
कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा २६.