तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः २६.
यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना २६.
उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत् २६.
पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत २६.
प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः २६.
सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः २६.
न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत २६.
समागतं च तत्सव विना दैत्यैर्दुरात्मभिः २६.
सब्रह्यकं पुरारातेर्महिमानमवर्धयत् २६.
पुरे स्थितं विवाहस्य देव कालः प्रवर्तते २६.
बबंध प्रणयोदारविस्फारितविलोचनः २६.
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत २६.
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति २६.
बबंध देवदेवस्यच स्वयमेव प्रमोदतः २६.
आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे २६.
वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः २६.
विना भस्म समाधाय कपाले रजतप्रभम् २६.
वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः २६.
ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः २६.
ततो देवं प्रणम्याह वीरकः करसंपुटी २६.
इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत् २६.
तत्रैक्षत महादेवः स्वरूपं स जगन्मयम् २६.
देवदेव महादेव त्रिपुरांतक शंकर २६.
महेश्वर यथा साक्षादपरस्त्वं महेश्वरः २६.
करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः २६.
धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत् २६.
देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः २६.
सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः २६.
अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा २६.
सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा २६.