सितातपत्ररत्नांशुमिश्रितं चावहत्तदा २५.
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता २५.
एवं तस्यां स्थितायां तु स्थिते लोकत्रये तदा २५.
उत्संगतलसंगुप्तो बभूव भगवान्भवः २५.
अथ दृष्ट्वा शिशुं देवास्तस्य उत्संगवर्तिनः २५.
वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा २५.
स्तंभितः शिशुरूपेण देवदेवेन लीलया २५.
वह्निः शक्तिं तदा क्षेप्तुं न शशाक तथोत्थितः २५.
पाशं च वरुणो राजा ध्वजयष्टिं समीरणः २५.
नानायुधानि चादित्या मुसलं वसवस्तथा २५.
स्तंभिता देवदेवेन तथान्ये भुवनेषु ये २५.
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना २५.
बलं तेजश्च योगांश्च सर्वेषां जगृहे प्रभुः २५.
ब्रह्मा ध्यानमुपाश्रित्य बुबोध हरचेष्टितम् २५.
पौराणैः सामसंगीतैर्वेदिकैर्गुह्यनामभिः २५.
प्रसादात्तव बुद्ध्यादिर्जगदेतत्प्रवर्तते २५.
महादेवमिहायातं सर्वदेवनमस्कृतम् २५.
ततः संभ्रम संपन्नास्तुष्टुवुः प्रणताः सुराः २५.
दुराचारान्भवानस्मानात्मद्रोहपरायणान् २५.
भार्यामुमां महादेवीं तथाप्यत्र समागताः २५.
येषामेवंविधाबुद्धिरस्माभिः किं कृतं त्विदम् २५.
त्वयैव पतिना सर्वे प्रेरिताः कुर्महे विभो २५.
भ्रामयस्यखिलं विश्वं यन्त्रारूढं स्वमायया २५.
तस्मै पशुनां पतये नमस्तुभ्यं प्रसीद नः २५.
यथापूर्वं चकारैतान्संस्तवाद्ब्रह्मणः प्रभुः २५.
कोयमंग महादेवो न मन्यामो वयं च तम् २५.
हुंकारेणैव ते दैत्याः स्वमेव नगरं गताः २५.
महादेवप्रभावेन दैत्यानां घोरकर्मणाम् २५.
कथमीश्वरवाक्यार्थस्तस्मादन्यत्र मुच्यते २५.
ईश्वरं भुवनस्यास्य ये भजंते न त्र्यंबकम् २५.