विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम् २५.
मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे २५.
न सम्यगभिजानासि तस्य देवस्य चेष्टितम् २५.
स आदिः सर्वजगतां कोस्य वेदान्वयं ततः २५.
गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः २५.
श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम् २५.
वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी २५.
नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः २५.
भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः २५.
कथंकारं हि ते नाम भजंते नैव तं हरम् २५.
विमृश्य कुर्वते सर्वं विमृश्यैतन्मया कृतम् २५.
इति ब्रुवंत्यां तस्यां तु किंचित्प्रस्फुरिताधरम् २५.
वार्यतामिति विप्रोऽयं महद्दूषणबाषकः २५.
अथ वा किं च नः कार्यं वादेन सह ब्राह्मणैः २५.
इत्युक्त्वोत्थाय गच्छंत्यां पिधाय श्रवणावुभौ २५.
ततो निरीक्ष्य तं देवं संभ्रांता परमेश्वरी २५.
प्राह तां च महादेवो दासोऽस्मि तव शोभने २५.
मनसस्त्वं प्रभुः शंभो दत्तं तच्च मया तव २५.
पित्रा हि ते परिज्ञातं दृष्ट्वा त्वां रूपशालिनीम् २५.
तत्तस्य सर्वमेवास्तु वचनं त्वं हिमाचलम् २५.
इत्युक्त्वा तां महादेवः शुचिः शुचिषदो विभुः २५.
दृष्ट्वा देवीं तदा हृष्टो मेनया सहितोऽचलः॥ २५.
आलिंग्याघ्राय पप्रच्छ सर्वं सा च न्यवेदयत् २५.
स्वयंवरं प्रमुदितः सर्वलोकेष्वघोषयत् २५.
यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषा नगाः २५.
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च २५.
जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम् २५.
तातास्माकं च सा देवी मेरो गच्छ नमामि ताम् २५.
विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम् २५.
गंधर्वसंघैर्विविधैः किंनरैश्च सुशोभनैः २५.