सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात्
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च
चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि
नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः
नरके कालसूत्राख्ये निवसेत्परदारगः
महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः
संहारे छन्नपापिष्ठो मृषावादी भयानके 1.3.2.5.
वज्रे परद्रोहरतो मांसाशी तरले द्विज
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे
देवस्वहारी दहने घोरघोरे परस्वहृत्
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून्
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः
परदाररतः पंगु बधिरः परनिंदकः 1.3.2.5.
अभ्यागतातिथित्यागी कपोलकंटको भवेत्
मर्यादाभेदको दासस्तटाकारामहृत्खरः
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम्
सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम्
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके
कृतोपवासः संपूज्य प्रयतः परमेश्वरम्
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन्