ततः सा दक्षिणं दत्त्वा करं तं प्रोज्जहार च एतत्सन्दर्शनार्थाय तथा चक्रे भवोद्भवः॥ २५.
प्रोद्धृत्य च ततः स्नात्वा बद्ध्व योगासनं स्थिता॥ २५.
ब्रह्मचारी ततः प्राह प्रहसन्किमिदं शुभे २५.
देवी प्राह ज्वालयिष्ये शरीरं योगवह्निना २५.
ब्रह्मचारी ततः प्राह काश्चिद्ब्राह्मणकाम्यया २५.
नोपहन्यां कदाचिद्वि साधुभिर्विप्रकामना २५.
देवी प्राह ब्रूहि विप्र मुहूर्तं संस्थिता त्वहम् २५.
किमर्थमिति रम्भोरु नवे वयसि दुश्चरम् २५.
दुर्लभं प्राप्य मानुष्यं गिरिराजगृहेऽधुना २५.
अतीव दूये वीक्ष्य त्वां सुकुमारतराकृतिम् २५.
इदं चान्यत्त्व शुभे शिरसो रोगदं मम २५.
वामः कामो मनुष्येषु सत्यमेतद्वचो यतः २५.
अविज्ञातान्वयो नग्नः शूली भूतगणाधिपः २५.
गजाजिनो द्विजिह्वाद्यलंकृतांगो जटाधरः २५.
गुणा ये कुलशीलाद्य वराणामुदिता बुधैः २५.
शोचनीयतमा पूर्वमासीत्पार्वति कौमुदी २५.
तपोधनाः सर्वसमा वयं यद्यपि पार्वति २५.
वृषभारोहणं वासः श्मशाने पाणिसंग्रहः २५.
जनहास्यकरं सर्वं त्वयारब्धमसांप्रतम् २५.
निवर्तय मनस्तस्मादस्मात्सर्वविरोधिनः २५.
विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम् २५.
मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे २५.
न सम्यगभिजानासि तस्य देवस्य चेष्टितम् २५.
स आदिः सर्वजगतां कोस्य वेदान्वयं ततः २५.
गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः २५.
श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम् २५.
वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी २५.
नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः २५.
भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः २५.
कथंकारं हि ते नाम भजंते नैव तं हरम् २५.