यदिदं भवतो वाक्यं न सम्यगिति मे मतिः २५.
त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः २५.
ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात् २५.
अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते २५.
यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत् २५.
बाल्ये च यौवने चापि वार्धक्येपि विनश्यति २५.
इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता २५.
तत्रां बराणि संत्यज्य भूषणानि च शैलजा २५.
ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता २५.
त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः २५.
जलभक्षा शतं चाभूच्छतं वै वायुभोजना २५.
निराहारा ततस्तापं प्रापुस्तत्तपसो जनाः २५.
हरस्तत्राययौ साक्षाद्ब्रह्मचारिवपुर्द्धरः २५.
सुलक्षणाषाढधरः सद्वृत्तः प्रति भानवान् २५.
वक्तुमिच्छुः शैलपुत्रीं सखीभिरिति चोदितः २५.
मुहूर्तपंचमात्रेण नियमोऽस्याः समाप्यते २५.
नानाविदा धर्मवार्ताः प्रकरिष्यसि ब्राह्मण २५.
अश्रुमुख्यो द्विजस्याग्रे निन्युः कालं च तं तदा २५.
विलोकनमिषेणागादाश्रमोपस्थितं ह्रदम् २५.
अहमत्र निमज्जामि कोऽपि मामुद्धरेत भोः २५.
आजग्मुस्त्वरया युक्ता ददुस्तस्मै करं च ताः २५.
नाहं स्पृशाम्यसंसिद्धां म्रिये वा नानृतं त्विदम् २५.
सव्यं करं ददावस्य तं चासौ नाभ्यनन्दत २५.
सदोषेण कृतं यच्च तदादद्यान्न कर्हिचित् २५.
इत्युक्ता पार्वती प्राह नाहं दत्तं च दक्षिणम् २५.
दक्षिणं मे करं देवो ग्रहीता भव एव च २५.
यद्येवमवलेपस्ते गमनं केन वार्यते २५.
रुद्रस्यापि वयं मान्याः कीदृशं ते तपो वद २५.
अवजा नासि विप्रांस्त्वं तच्छीघ्रं व्रज दर्शनात् २५.
ततो विचार्य बहुधा इति चेति च सा शुभा २५.