अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव २४.
यदा विष्णुश्च भविता वसुदेवात्मजो विभुः २४.
सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः २४.
देवर्षे वर्ण्यते चेयं कथा पीयूषसोदरा २५.
भगवान्स्वां सतीं भार्यां वधार्थं चापि तारकम् २५.
त्वयैवोक्तं स विरहात्सत्यास्तप्यति वै तपः २५.
सत्यमेतत्पुरा पार्थ भवस्येदं मनीषितम् २५.
तपो विना शुद्धदेहो न कथंचन जायते २५.
महत्कर्माणि यानीह तेषां मूलं सदा तपः २५.
एतस्मात्कारणाद्देवो दर्पितं तं ददाह तु २५.
विहाय सगणो देवः कैलासं समपद्यत २५.
जीवितं स्वं विनिंदंती बभ्रामेतस्ततश्चसा २५.
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि २५.
निवेदिते तथा रत्या शैलः संभ्रांतमानसः २५.
सा तत्र पितरौ प्राह सखीनां वदनेन च २५.
देहवासं परित्यक्ष्ये प्राप्स्ये वाभिमतं पतिम् २५.
नियमैर्विविधैस्तस्माच्छोषयिष्ये कलेवरम् २५.
श्रुत्वेति वचनं माता पिता च प्राह तां शुभाम् २५.
सोढुं क्लेशात्मरूपस्य तपसः सौम्यदर्शने २५.
भाविनोर्था भवंत्येव नरस्यानिच्छतोपि हि २५.
यदिदं भवतो वाक्यं न सम्यगिति मे मतिः २५.
त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः २५.
ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात् २५.
अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते २५.
यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत् २५.
बाल्ये च यौवने चापि वार्धक्येपि विनश्यति २५.
इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता २५.
तत्रां बराणि संत्यज्य भूषणानि च शैलजा २५.
ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता २५.
त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः २५.