अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः २४.
वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः २४.
आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा २४.
एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः २४.
मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि २४.
यत्किंचित्साध्यते लोके मूलं तस्य च कामना २४.
सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम् २४.
अमुक्तितः कामनया रूपं तत्तामसं तव २४.
केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव २४.
त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः स्वप्राणैरपि त्रायांति परमेतन्महाफलम्॥ २४.
इति संचिंत्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्॥ २४.
इत्या कर्ण्य तथेत्युक्त्वा वसंतरतिसंयुतः २४.
तत्रापश्यत शंभोः स पुण्यमाश्रममंडलम् २४.
तत्रापश्यत्त्रिनेत्रस्य वीरकंनाम द्वारपम् २४.
ददर्श च महेशानं नासाग्रकृतलोचनम् समाकायं सुखासीनं समाधिस्थं महेश्वरम्॥ २४.
निस्तरंगं विनिर्गृह्य स्थितमिंद्रियगोचरान् २४.
तं तथाविधमालोक्य सोंतर्भेदाय यत्नवान् २४.
एतस्मिन्नंतरे देवो विकासितविलोचनः २४.
निवेदिता वीरकेण विवेश च गिरेः सुता २४.
ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च तावदापूर्णधनुषमपश्यत रतिप्रियम्॥ २४.
तन्नाशकृपया देवो नानास्थानेषु सोऽगमत् २४.
स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा २४.
जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम् २४.
ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम् २४.
सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः २४.
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम् २४.
भृंगेषु कोकिलास्येषु विहारेषु स्मरानलम् २४.
ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः २४.
विललाप रतिर्द्दीना मधुना बंधुना सह २४.
रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः २४.