पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान्
विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात्
नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात्
नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः
नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात्
नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम्
ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम्
इति वदति शिलादनंदने मुदितमनाः स मृकण्डुनंदनः ।। 1.3.2.4.
किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते
रजस्तमोगुणोपेता भवंति सुलभा नराः
सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात्
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च
चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि
नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः
नरके कालसूत्राख्ये निवसेत्परदारगः
महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः
संहारे छन्नपापिष्ठो मृषावादी भयानके 1.3.2.5.
वज्रे परद्रोहरतो मांसाशी तरले द्विज
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे
देवस्वहारी दहने घोरघोरे परस्वहृत्
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून्
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः
परदाररतः पंगु बधिरः परनिंदकः 1.3.2.5.
अभ्यागतातिथित्यागी कपोलकंटको भवेत्