दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन् २३.
तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी॥ २३.
यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता २३.
केन दोषेण मे पुत्री न योग्या आशिषामता २३.
निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः २३.
इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम् २३.
मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक् २३.
जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा २३.
तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः २३.
न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः २३.
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः॥ २३.
सर्वे देवा यत्पदमामनंति वेदैश्च सर्वैरपि यो न लभ्यः २३.
स चामंगल्यशीलोऽपि मंगलां यतनो हरः २३.
स च देवोऽचलः स्थाणुर्महादेवोऽजरो हरः २३.
एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः २४.
पुनः किंचित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः २४.
इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा २४.
अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः २४.
जननी सर्वलोकस्य भाविनी भूतभाविनी २४.
त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम २४.
इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत् २४.
किं तु पंचशरः प्रेर्यः कार्यशेषेऽत्र वासव २४.
कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम् २४.
भवस्याराधनां कर्तुं ससखीमादिशत्तदा २४.
पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात् २४.
स च तत्स्मरणं ज्ञात्वा वसंतरतिसंयुतः २४.
तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन् २४.
चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम् २४.
ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ २४.
संयोजय पुनर्देव्या हिमाद्रिगृहजातया २४.