इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना २३.
ततो विस्मितचित्तोहमुपचारविदांवरः २३.
रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया २३.
वंदमाना च मे पादौ मया नीतांक मात्मनः २३.
न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता २३.
नोदयामास मां मंदमानशीःशंकिता तदा २३.
तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत् २३.
न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः २३.
श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः २३.
अहो विचित्रः सं सारो दुर्वेद्यो महतामपि २३.
यत्नेन महता तावत्पुण्यैर्बहुविधैरपि २३.
अध्रुवं तद्ध्रवत्वे च कथंचित्परिकल्प्यते २३.
साध्वी महाकुलोत्पन्ना भार्याया स्यात्पतिव्रता २३.
सह वेदपुराणोक्तं जगत्त्रयहितावहम् २३.
तदपत्यमपत्यार्थं संसारे किल नारद २३.
सर्वमेतदवाप्नोति स कोपि यदिवा न वा २३.
अथ संसारिको दोषः स्वकृतं यत्र भुज्यते २३.
नेति केचित्तत्र पुनः कथं ते यदि नो गृही २३.
पुनश्चसृष्टिवृद्ध्यर्थं नरकत्राणनाय च २३.
सा च जातिप्रकृत्यैव कृपणा दैन्यभागिनी शास्त्रेषूक्तमसंदिग्धं वाक्यमेतन्महात्फलम्॥ २३.
दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन् २३.
तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी॥ २३.
यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता २३.
केन दोषेण मे पुत्री न योग्या आशिषामता २३.
निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः २३.
इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम् २३.
मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक् २३.
जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा २३.
तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः २३.
न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः २३.