तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने २३.
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने॥ २३.
तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम् २३.
ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम् २३.
तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते २३.
गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा २३.
अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम् २३.
अवगाह्य स्थितवता क्रियते प्राणिपालना २३.
तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम् २३.
त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव २३.
मुदिताः प्रतिवर्तंते गृहस्थमिव प्राणिनः २३.
उपाकरोषि जंतूनामेवंरूपा हि साधवः २३.
कंदरं यस्य चाध्यास्ते स्वयं तव महेश्वरः २३.
हिमशैलस्य महिषी मेना आगाद्दिदृक्षया २३.
लज्जयानतसर्वांगी प्रविवेश सदो महत् २३.
वस्त्रनिर्गूढवदना पाणिपद्मकृतांजलिः २३.
पतिव्रता शुभाचारा सुबगा वीरसूः शुभे २३.
ततोऽहं विस्मिताक्षीं च हिमवद्गिरिपुत्रिकाम् २३.
ततो देवी जगन्माता बालबावं स्वकं मयि २३.
उवाच वाचं तां मंदं मुनिं वंदय पुत्रिके २३.
इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना २३.
ततो विस्मितचित्तोहमुपचारविदांवरः २३.
रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया २३.
वंदमाना च मे पादौ मया नीतांक मात्मनः २३.
न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता २३.
नोदयामास मां मंदमानशीःशंकिता तदा २३.
तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत् २३.
न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः २३.
श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः २३.
अहो विचित्रः सं सारो दुर्वेद्यो महतामपि २३.