किंचिच्छयाममुखोदग्रस्तनभागावनामिताम् २२.
ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये २२.
जन्मदाया जगन्मातुः क्रमेण जठरांतरम् २२.
ततो जगन्मं गलदा मेना हिमगिरेः प्रिया २२.
तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः २२.
अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम् २२.
वनाश्रिताश्चौषधयः स्वादवंति फलानि च २२.
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः २२.
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् २२.
सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः २२.
हरिब्रह्ममहेंद्रार्कवायुवह्निपुरोगमाः २२.
मेरुप्रभृतयश्चापि मूर्तिमंतो महानगाः २२.
सागराः सरितश्चैव समाजग्मुश्च सर्वशः॥ २२.
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः २२.
अनुभूयोत्सवं ते च जग्मुः स्वानालयांस्तदा॥ २२.
ततश्च शैलजा देवी चिक्रीड सुभगा तदा मुनीनां चापि याः कन्यास्ताभिः सार्धं च शोभना॥ २३.
कदाचिदथ मेरुस्थो वासवः पांडुनंदन २३.
मां दृष्ट्वा च सहस्राक्षः समुत्थायातिहर्षितः २३.
महासुर महोन्मादकालानल दिवस्पते २३.
पृष्टस्त्वेवं मया शक्रः प्रोवाच वचनं स्मयन् २३.
तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने २३.
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने॥ २३.
तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम् २३.
ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम् २३.
तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते २३.
गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा २३.
अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम् २३.
अवगाह्य स्थितवता क्रियते प्राणिपालना २३.
तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम् २३.
त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव २३.