तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च २२.
यदा रुद्रोपहसिता तपस्तप्स्यति सा महत् २२.
स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते २२.
तस्यैव हिमशैलस्य कंदरे सिद्धसेविते २२.
तयोः सुतप्ततपसोर्भविता यो महान्सुतः २२.
तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने २२.
त्वयापि दानवो देवि देहनिर्गतया तदा २२.
यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि २२.
ततस्त्वां वरदे देवी लोकः संपूजयिष्यति २२.
ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः २२.
वैश्याश्च भूतिमित्येव शिवां शूद्रास्तथा शुभे २२.
त्वं महोपाय सन्दोहा नीतिर्नयविसर्पिणाम् २२.
त्वं युक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् २२.
त्वं कांतिः शुभरूपाणां त्वं शांति शुभकर्मिणाम् २२.
जलधीनां महावेला त्वं च लीला विलासिनाम् २२.
त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी २२.
प्रसीद प्रणतानस्मान्सौम्यदृष्ट्या विलोकय॥ २२.
इति स्तुवंतो ये देवि पूजयिष्यंति त्वां शुभे २२.
इत्युक्ता तु निशादेवी तथेत्युक्त्वा कृताञ्जलिः २२.
तत्राऽऽसीनां महाहर्म्ये रत्नभित्तिसमाश्रये २२.
किंचिच्छयाममुखोदग्रस्तनभागावनामिताम् २२.
ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये २२.
जन्मदाया जगन्मातुः क्रमेण जठरांतरम् २२.
ततो जगन्मं गलदा मेना हिमगिरेः प्रिया २२.
तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः २२.
अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम् २२.
वनाश्रिताश्चौषधयः स्वादवंति फलानि च २२.
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः २२.
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् २२.
सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः २२.