मया च वरदानेन च्छन्दयित्वा निवारितः॥ २२.
तपसा स हिदीप्तोऽभूत्त्रैलोक्यदहनात्मकः २२.
स च सप्तदिनो बालः शंकराद्यो भविष्यति २२.
सतीनामा तु या देवी विनष्टा दक्षहेलया २२.
शंकरस्य च तस्याश्च यत्नः कार्यः समागमे २२.
इत्युक्तास्त्रिदशास्तेन साक्षात्कलयोनिना २२.
ततो गतेषु देवेषु ब्रह्मा लोकपितामहः २२.
ततो भगवती रात्रिरुपतस्थे पितामहम् २२.
विभावरि महाकार्यं विबुधानामुपस्थितम् २२.
तारकोनाम दैत्येंद्रः सुरकेतुरनिर्ज्जितः २२.
सुतः स भविता तस्य तारकस्यांतकारकः २२.
अर्धनारीश्वरं देवं व्याप्य विश्वमवस्थितम् २२.
ततो नारी पृथग्जाता पुरुषश्च तथा पृथक् २२.
एकादश च रुद्राश्च पुरुषास्तस्य चांशजाः २२.
भजस्व पुत्रीं जगती ममापि च तवापि च २२.
एवमुक्तो मया दक्षः पुत्रीत्वे परि कल्पिताम् २२.
ततः काले चँ कस्मिंश्चिदवमेने च तां पिता २२.
ये रुद्रं नैव मन्यंते ते स्फुटं कुलकज्जलाः २२.
अवमानेन तस्यापि यथा देवी जहौ तनुम् २२.
अधुना हिमशैलस्य भवित्री दुहिता च सा २२.
तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च २२.
यदा रुद्रोपहसिता तपस्तप्स्यति सा महत् २२.
स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते २२.
तस्यैव हिमशैलस्य कंदरे सिद्धसेविते २२.
तयोः सुतप्ततपसोर्भविता यो महान्सुतः २२.
तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने २२.
त्वयापि दानवो देवि देहनिर्गतया तदा २२.
यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि २२.
ततस्त्वां वरदे देवी लोकः संपूजयिष्यति २२.
ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः २२.