अप्रमत्तैः सदा भाव्यं पाल्यश्च समयस्तथा २१.
प्रणतः संस्तुतो देवैर्ब्रह्माणं च सुरा ययुः॥ २१.
दिव्योत्तमैस्तत्र गतैरभिष्टुतो विदीप्ततेजा भुवनत्रयेऽपि २१.
स्वयमिन्द्रो निमिर्वह्निः कालनेमिर्यमोऽपि च २१.
मेषो वाताधिकारि च कुजंभो धनदोऽभवत् २१.
एवं विप्रकृता देवा महेंद्रसहितास्तदा २२.
ततश्च विस्मितो ब्रह्मा प्राह तान्सुरपुंगवान् २२.
ततो देवाः स्वरूपस्थाः प्रम्लानवदनांबुजाः २२.
नमो जगत्प्रसूत्यै ते हेतवे पालकाय च २२.
त्वमपः प्रथमं सृष्ट्वा तासु वीर्यमवासृजः २२.
वेदेष्वाहुर्विराड्रूपं त्वामेकरूपमीदृशम् २२.
महातलं चास्य गुल्फौ जंघे चापि तलातलम् २२.
महीतलं च जघनं नाभिश्चास्य नभस्तलम् २२.
ग्रीवा महश्चवदनं जनलोकः प्रकीर्त्यते २२.
चन्द्रसूर्यौ च नयने दिशः श्रोत्रे नासिकाश्विनौ २२.
एवं ये ते विराड्रूपं संस्मरंत उपासते २२.
एवं स्थूलं प्राणिमध्यं च शूक्ष्मं भावेभावे भावितं त्वां गृणंति २२.
एवं स्तुतो विरंचिस्तु कृपयाभिपरिप्लुतः २२.
सर्वे भवन्तो दुःखार्ताः परिम्लानमुखांबुजाः २२.
ममैवयं कृतिर्देवा भवतां यद्वडम्बना २२.
यद्यद्विभूतिमत्सत्त्वं धार्मिकं चोर्जितं महत् २२.
तन्नूनं मम भग्नौ च बाहू तेन दुरात्मना २२.
योऽसौ वज्रांगतनयस्त्वया दत्तवरः प्रभो २२.
यत्तन्महीसमुद्रस्य तटं शार्विकतीर्थकम् २२.
ऋद्धयः सर्वदेवानां गृहीतास्तेन सर्वतः २२.
चंद्रसूर्यौ ग्रहास्तारा यच्चान्यद्देवपक्षतः २२.
वयं च विधृता स्तेन बहूपहसितास्तथा २२.
तद्वयं शरणं प्राप्ताः पीडिताः क्षुत्तृषार्दिताः २२.
इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् २२.
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः २२.