अविश्वास्ये विश्वसिषि मन्यसे चाऽध्रुवं ध्रुवम् २१.
नेयं तव न चास्माकं न चान्येषां स्थिरा मता २१.
कंचित्कालमियं स्थित्वा त्वयि तारक चंचला २१.
सरत्नौषदिसंपन्नं ससरित्पर्वताकरम् २१.
हिरण्यकशिपुर्वीरो हिरण्याक्षश्च दुर्जयः २१.
कीर्तिः शूरश्च वीरश्च वातापिरिल्वलस्तथा २१.
विश्वजित्प्रमुखाश्चान्ये दानवेंद्रा महाबलाः २१.
सर्वैर्वर्षायुतं तप्तं न त्वमेको महातपाः २१.
सर्वे यथार्हदातारः सर्वे दाक्षायणीसुताः २१.
मुंचेच्छां कामभोगेषु मुंचेमं श्रीभवं मदम् २१.
शोककाले शुचो मात्वं हर्षकाले च मा हृषः २१.
इंद्रं चेदागतः कालः सदा युक्त मतंद्रितम् २१.
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे २१.
त्वमेव वेत्सि मां दैत्य योहं यादृक्पराक्रमः २१.
येषां त्वं कोटिभागेऽपि परिपूर्णो न तारक २१.
इच्छन्संजीवयाम्येतदनिच्छन्नाशये क्षणात् २१.
अंगुल्यग्रेण दैत्येंद्र पुनर्धर्मं नलोपये २१.
लोपयामि ततः कं च धर्मोऽयं शरणं व्रजेत् २१.
सोऽयं कालः पचेद्विश्वं वृक्षे फलमिवागतम् २१.
प्राप्नोति पुरुषो दैत्य पश्य कालस्य चित्रताम् २१.
स्वकर्मपरिपाकस्य फलदं वै विदुर्बुधाः २१.
पुण्येन तत्र सोख्यं स्याद्दृःखं पापेन निश्चितम् मदुक्तं वचनं सर्वं यदि मंतुमिहार्हसि॥ २१.
मामत्र संस्थितं दृष्ट्वा कालनेमिमुखैर्युतम्॥ २१.
कस्येह न व्यथेद्बुर्मृत्योरपि जिवांसतः २१.
ब्रवीषि यद्यत्त्वं वाक्यं ततथैव न संशयः २१.
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् २१.
कालाग्नावाहितं घोरे गुह्ये सततगत्वरे २१.
कालो हरति संप्राप्ते नदीवेग इवोन्मुखान् २१.
कालेन ह्रियमाणानां प्रलापः श्रूयते नृणाम् २१.
स्पृहामोहातिवादेषु लोकः सक्तो न बुध्यते २१.