मर्का दैत्यकरोत्तालैर्हर्षनादविनोदितैः २१.
अभयं वो मर्कदेवास्तुष्टो यच्छाम्यहं त्विदम् २१.
इति श्रुत्वा विष्णुमर्कः प्रनृत्यन्नि दमब्रवीत् २१.
एवमुक्ते प्रहस्याह तारको दैत्यसत्तमः २१.
हरिमर्कस्ततः प्राह यद्येवं स्वं वचः स्मर २१.
अश्वमेधशतस्यापि सत्यं राजन्विशिष्यते २१.
ततः सुविस्मितो दैत्यः प्राहेदं वचनं तदा २१.
अहं नारायणोनाम यदि श्रोत्रमुपागतः २१.
तच्चेन्मान्यतमो धर्मस्तव तद्वचनं स्वकम् २१.
अवलोपश्च राजेंद्र न कर्तव्यस्त्वया हृदी २१.
पर्यायैर्हन्यमानानामभिहंता न विद्यते २१.
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च २१.
न मंत्रबलवीर्येण प्रज्ञया पौरुषेण वा २१.
न मातृपितृशुश्रूषा न च दैवतपूजनम् २१.
न विद्या न तपो दानं न मित्राणि न वांधवाः २१.
नागामिगमनार्थं हि प्रतिघातशतैरपि २१.
देहवत्पुण्यकर्माणि जीववत्काल उच्यते २१.
अहो दैत्य त्वद्विशिष्टा दैत्यानां कोटयः पुरा २१.
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे २१.
न चेदमचलं स्थानमनंतं चापि कस्यचित् २१.
अविश्वास्ये विश्वसिषि मन्यसे चाऽध्रुवं ध्रुवम् २१.
नेयं तव न चास्माकं न चान्येषां स्थिरा मता २१.
कंचित्कालमियं स्थित्वा त्वयि तारक चंचला २१.
सरत्नौषदिसंपन्नं ससरित्पर्वताकरम् २१.
हिरण्यकशिपुर्वीरो हिरण्याक्षश्च दुर्जयः २१.
कीर्तिः शूरश्च वीरश्च वातापिरिल्वलस्तथा २१.
विश्वजित्प्रमुखाश्चान्ये दानवेंद्रा महाबलाः २१.
सर्वैर्वर्षायुतं तप्तं न त्वमेको महातपाः २१.
सर्वे यथार्हदातारः सर्वे दाक्षायणीसुताः २१.
मुंचेच्छां कामभोगेषु मुंचेमं श्रीभवं मदम् २१.