जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा २१.
धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे २१.
ततो देवान्पुरस्कृत्य पशुपालः पशूनिव २१.
महीसागरकूलस्थं तारकः स पुरं बली २१.
प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम् २१.
गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति २१.
महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः २१.
स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः २१.
एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत् २१.
रूपेणानुपमा पार्थ नानाभरणभूषिता २१.
कासि देवी मम ब्रूहि किं मया रूपसुंदरि २१.
अहं त्रैलोक्यलक्ष्मीति विद्धि मां दैत्यसत्तम २१.
वीर्यवंतं त्वनलसं तपस्विनमकातरम् २१.
भीरुं निर्विण्ण्मत्यर्थं साध्वीपीडाकरं नरम् २१.
महेंद्रण च माता ते यदा सा व्यपमानिता २१.
तारकश्च ततः प्राह परमं चेति तां तदा २१.
ततो दैत्याधिपं नार्यो दानवानां विभूषिताः २१.
देवाश्च द्वारि तिष्ठंति बद्धा दैत्यैर्भृशातुराः २१.
एतस्मिन्नंतरे विष्णुर्दैत्यरूपं समास्थितः २१.
इदमल्पतरंनाम यदमीषां च दृश्यते २१.
बलीयांसं समासाद्य न नमेद्यो न चास्ति सः २१.
उपहासमुखेनामी उपदेशं हरेर्मुखात् २१.
नृत्यंतस्ते च बहुधा दैत्याश्चासुरयोषितः २१.
विष्णुर्दैत्यप्रतीहारं ततः प्रोवाच बुद्धिमान् २१.
प्रतीहारस्ततो हृष्टः सभामध्ये विवेश सः २१.
उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम् २१.
भृशं विनोदकारिणि स्पृहा चेद्द्रष्टुमर्हसि २१.
क्षत्ता चेति वचः श्रुत्वा कालनेमिं तदाब्रवीत् २१.
रक्षपाल सहैभिस्त्वं राजानमनुकूलय २१.
मर्कमध्ये विष्णुमर्को यातस्त्यक्त्वा च दैत्यताम् २१.