पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् २१.
मुमोच पाशं दैत्येन्द्रभुजबन्धाबिलाषुकः २१.
स्फुटितः क्रकचक्रूरदशनालिरहीश्वरः २१.
यक्षराक्षसगनधर्वाः सर्पाश्चास्त्रैः पृथग्विधैः २१.
न चास्त्राण्यस्यासज्जन्त गात्रे वज्राचलोपमे २१.
जघान कोटिशः क्रुद्धो मुष्टिपार्ष्णिभिरेव च २१.
पलायध्वमहो देवा वदन्नन्तर्हितोऽभवत् २१.
कालनेमिमुखैर्दैत्येरुपरुद्धा मदोत्कटैः २१.
तारिताः शुष्कसरितं देवमार्गाश्च दंशिताः २१.
ततो निनादः संजज्ञे दैत्यानां बलशालिनाम् २१.
जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा २१.
धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे २१.
ततो देवान्पुरस्कृत्य पशुपालः पशूनिव २१.
महीसागरकूलस्थं तारकः स पुरं बली २१.
प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम् २१.
गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति २१.
महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः २१.
स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः २१.
एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत् २१.
रूपेणानुपमा पार्थ नानाभरणभूषिता २१.
कासि देवी मम ब्रूहि किं मया रूपसुंदरि २१.
अहं त्रैलोक्यलक्ष्मीति विद्धि मां दैत्यसत्तम २१.
वीर्यवंतं त्वनलसं तपस्विनमकातरम् २१.
भीरुं निर्विण्ण्मत्यर्थं साध्वीपीडाकरं नरम् २१.
महेंद्रण च माता ते यदा सा व्यपमानिता २१.
तारकश्च ततः प्राह परमं चेति तां तदा २१.
ततो दैत्याधिपं नार्यो दानवानां विभूषिताः २१.
देवाश्च द्वारि तिष्ठंति बद्धा दैत्यैर्भृशातुराः २१.
एतस्मिन्नंतरे विष्णुर्दैत्यरूपं समास्थितः २१.
इदमल्पतरंनाम यदमीषां च दृश्यते २१.