तस्मिञ्जयाशा शक्रस्य दानवेन्द्राय संयुगे २१.
विशीर्यत विकीर्णार्चिः शतधा खण्डशो गतम् २१.
ज्वलितज्वलनाभासमंकुशं प्रमुमोच ह २१.
ततः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकंदरम् २१.
महीधरं तमायांतं सस्मितं दैत्यपुंगवः २१.
ततस्तेनैव चाहत्य पातयामास चांतकम् २१.
दैत्येन्द्रमूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयम् २१.
कल्पांतलोकदहनो ज्वलनो रोषसंज्वलन् २१.
ततः शिरीषमालेव सास्य वक्षस्यराजत २१.
द्युति भासितत्रैलोक्यं लोकपालोऽपि निर्ऋतिः २१.
पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् २१.
मुमोच पाशं दैत्येन्द्रभुजबन्धाबिलाषुकः २१.
स्फुटितः क्रकचक्रूरदशनालिरहीश्वरः २१.
यक्षराक्षसगनधर्वाः सर्पाश्चास्त्रैः पृथग्विधैः २१.
न चास्त्राण्यस्यासज्जन्त गात्रे वज्राचलोपमे २१.
जघान कोटिशः क्रुद्धो मुष्टिपार्ष्णिभिरेव च २१.
पलायध्वमहो देवा वदन्नन्तर्हितोऽभवत् २१.
कालनेमिमुखैर्दैत्येरुपरुद्धा मदोत्कटैः २१.
तारिताः शुष्कसरितं देवमार्गाश्च दंशिताः २१.
ततो निनादः संजज्ञे दैत्यानां बलशालिनाम् २१.
जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा २१.
धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे २१.
ततो देवान्पुरस्कृत्य पशुपालः पशूनिव २१.
महीसागरकूलस्थं तारकः स पुरं बली २१.
प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम् २१.
गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति २१.
महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः २१.
स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः २१.
एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत् २१.
रूपेणानुपमा पार्थ नानाभरणभूषिता २१.