ततः समस्तमुद्वृत्तं ततोदृस्यत तारकः २१.
लोकावसाद मेकत्र लोकोद्धरणमेकतः २१.
प्रशशंसुः सुराः पार्थ तदा तस्मिन्समागमे॥ २१.
अस्त्राणि तेजांसि धनानि योधा यशो बलं वीरपराक्रमाश्च २१.
अथाभिमुखमायांतं देवा विनतर्पवभिः २१.
स तानचिंत्य दैत्येंद्रो देवबाणक्षतान्हृदि २१.
नारायणं च सप्तत्या नवत्या च हुताशनम् २१.
धनदं चैव सप्त्या वरुणं च तथाष्टभिः २१.
विव्याध पुनरेकैकं दशभिर्मर्मभेदिभिः २१.
गरुडं दशभिश्चैव महिषं नवभिस्तथा २१.
चकार वर्मजालानि चिच्छेद च धनूंषि च २१.
चापान्यन्यानि संगृह्य यावन्मुंचंति सायकान् २१.
ताडयामास शक्रं स हृदि सोपि मुमोचह २१.
तार्क्ष्यविष्णू समाजघ्ने शराभ्यां तावमुह्यताम् २१.
निर्ऋतेश्चाकरोत्कार्यं भीतबीतं विमोहयन् २१.
ततः प्राप्य हरिः संज्ञां प्रोत्साह्य च दिशां पतीन् २१.
धूमकेतोर्ज्वलात्क्रुद्धस्तस्य च्छित्त्वा न्यपातयत् २१.
धनेशश्च धनुः क्रुद्धो बिभेदबहुधा शरैः २१.
निर्ऋतिस्तिलशो वर्ण चक्रे बाणैस्ततो रणे २१.
लिहंतः सृक्किणीं देवा वासुदेवादयस्तदा २१.
मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे २१.
रथादाप्लुत्य धरणीमगमत्पाकशासनः २१.
स रथं चूर्णयामास न ममार च मातलिः २१.
स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः २१.
यमं च पातयामास भूमौ दैत्यो मुखे हतम् २१.
वायुं पदा तदाक्षिप्य पातयामास भूतले २१.
ततो देवनिकायानामेकैकं क्षणमात्रतः २१.
लब्धसंज्ञस्ततो विष्णुश्चक्रं जग्राह दुर्धरम् २१.
मुमोच दानवेंद्रस्य दृढं वक्षसि केशवः २१.
व्यशीर्यताथ कायेऽस्य नीलोत्पलमिवाश्मनि २१.