मृगाः सर्वेपि सततं चरंतो यत्र सानुषु
यस्य पादांतिकचरैः प्रायेण शबरैरपि
किं बहूक्त्याभ्यसूयंते द्वैमातुरकुमारयोः
सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः
अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते
प्रतीच्यां दिशि दंडाद्रिरिति कश्चिन्महीधरः
दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः
उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः 1.3.2.4.
तत्पर्यंतप्रभूतानामन्येषामपि भूभृताम्
धारिता येन सततं सर्वेपि धरणीरुहाः
यस्मिन्गिरीशे संदृष्टे मेनातुहिनभूभृतोः
तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः
ज्योतिष्मत्तोयशृंगस्य द्विपार्श्वस्थेन्दुभास्करः
वर्षासु शिखराधस्तादभिनीलबलाहकः
सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः
शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम्
आसादितापकटकः शारदैर्यः पयोधरैः
यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः 1.3.2.4.
सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः
तक्षकानंतसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः
सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम्
शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा
कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः
अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम्
तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम्
अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः
लिंगं भोगप्रदं पुंसां कैवल्याय प्रकल्पते
साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः 1.3.2.4.
सकृन्निमज्जनान्नॄणां पंचपातकनाशनम्
सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम्