तांश्च त्रस्तान्समालोक्य श्रुत्वा स चतुरो हतान् २१.
तथेत्युक्त्वा स च प्रायात्तारके रथमास्थिते २१.
साविष्कारं सधिक्कारं प्रयातो दानवेश्वरः २१.
सर्वायुधपरिष्कारं सर्वास्त्रपरिरक्षितम् २१.
सैन्येन महता युक्तो नादयन्विदिशो दिशः २१.
रथं मातलिना युक्तं तप्तहेमपरिष्कृतम् २१.
गंधर्वकिंनरोद्गीतमप्सरोनृत्यसंकुलम्॥ २१.
सर्वायुधमहाबाधं महारत्नसमाचितम् २१.
दांशिता लोकपालाश्च तसथुः सगरुडध्वजाः २१.
चेलुश्च सागराः सप्त तथाऽनश्यद्रवेः प्रभा २१.
ततः समस्तमुद्वृत्तं ततोदृस्यत तारकः २१.
लोकावसाद मेकत्र लोकोद्धरणमेकतः २१.
प्रशशंसुः सुराः पार्थ तदा तस्मिन्समागमे॥ २१.
अस्त्राणि तेजांसि धनानि योधा यशो बलं वीरपराक्रमाश्च २१.
अथाभिमुखमायांतं देवा विनतर्पवभिः २१.
स तानचिंत्य दैत्येंद्रो देवबाणक्षतान्हृदि २१.
नारायणं च सप्तत्या नवत्या च हुताशनम् २१.
धनदं चैव सप्त्या वरुणं च तथाष्टभिः २१.
विव्याध पुनरेकैकं दशभिर्मर्मभेदिभिः २१.
गरुडं दशभिश्चैव महिषं नवभिस्तथा २१.
चकार वर्मजालानि चिच्छेद च धनूंषि च २१.
चापान्यन्यानि संगृह्य यावन्मुंचंति सायकान् २१.
ताडयामास शक्रं स हृदि सोपि मुमोचह २१.
तार्क्ष्यविष्णू समाजघ्ने शराभ्यां तावमुह्यताम् २१.
निर्ऋतेश्चाकरोत्कार्यं भीतबीतं विमोहयन् २१.
ततः प्राप्य हरिः संज्ञां प्रोत्साह्य च दिशां पतीन् २१.
धूमकेतोर्ज्वलात्क्रुद्धस्तस्य च्छित्त्वा न्यपातयत् २१.
धनेशश्च धनुः क्रुद्धो बिभेदबहुधा शरैः २१.
निर्ऋतिस्तिलशो वर्ण चक्रे बाणैस्ततो रणे २१.
लिहंतः सृक्किणीं देवा वासुदेवादयस्तदा २१.