सुरसेनाऽभवद्भीमं पातालोत्तालतालुकम् २१.
शक्रो दीनत्वमापन्नः श्रांतवाहनवाहनः २१.
किमनंतरमेवास्ति कर्तव्यं नो विशेषतः २१.
ततो हरिरुवाचेदं वज्रायुधमुदारधीः २१.
मा गच्छ मोहं मा गच्छ क्षिप्रमस्त्रं स्मर प्रभो २१.
एतस्मिन्नंतरे दैत्यो विवृतास्योऽग्रसत्क्षणात् २१.
ततो नारायणास्त्रं च निपपातास्य वक्षसि २१.
ततः स्वतेजसा रूपं तस्य दैत्यस्य नाशितंम् २१.
गगनस्थः स दैत्येन्द्रः शस्त्राशनिमतींद्रियः २१.
तथा परश्वधांश्चक्रवज्रबाणान्समुद्गरान् २१.
ववर्ष दानवो रोषादवध्यानक्षयानपि २१.
बाहुभिर्धरणी पूर्णा शिरोभिश्च सकुंडलैः २१.
भग्नेषा दंडचक्राक्षै रथैभिः सह २१.
रुधिरौघह्रदावर्ता गजदेहशिलोच्चया २१.
श्रृगालगृध्रध्वांक्षाणां परमानंदकारिणी २१.
असंभ्रमाभिर्भार्याभिः सह नृत्यद्भिरुद्धता २१.
पिशाचो यत्र चाश्वानां खुरानेकत्र चाकरोत् २१.
प्रसादयंति बहुधा महाकर्णार्थकोविदाः २१.
आकल्पमेवं योद्धव्यमस्माकं तृप्तिहेतवे २१.
म्रियते यदि संग्रामे धातुर्दद्भोऽपयाचितम् २१.
एतेन पयसा विद्मो दुर्जनः सुजनो यथा २१.
पितॄन्देवांस्तर्पयंति शोणितैश्चामिषैः शुभैः २१.
देहिदेहीति वाशांतो धनिनः कृपणा यथा २१.
सरोषमोष्ठौ निर्भुज्य पश्यंत्येवात्यसूयया २१.
सर्वभक्षमभीप्संतस्तृप्ताः परधनं यथा २१.
सुप्रभातं सुनक्षत्रं पूर्वमासीद्धृथैव तत् २१.
अदृश्यः समरे जंभो देवाञ्ठस्त्रैरचूर्णयत् २१.
यमोऽथ निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः २१.
व्यर्थतां जग्मुरस्त्राणि देवानां दानवं प्रति २१.
गतिं न विविदुश्चापि श्रांता दैत्याश्च देवताः २१.