ततः सा दानवेंद्रस्य शैलमाया न्यवर्तत २१.
बभूव कुंजरो भीमो महाशैलमयाकृतिः २१.
बभंज पृष्ठतः कांश्चित्करेणाकृष्य दानवः २१.
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह २१.
हृष्टदंष्ट्राट्टहासानि क्रकचाभनखानि च २१.
ततश्चाशीविषो घोरोऽभवत्फणसमाकुलः २१.
ततोऽस्त्रं गारुडं चक्रे शक्रः संप्रहरन्रॅणे २१.
तैर्गरुत्मद्भिरासाद्य जंभं भुजगरूपिणम् २१.
मायायाम च प्रनष्टायां ततो जंभो महासुरः २१.
विवृत्तनयनो ग्रस्तुमियेष सुरपुंगवान् २१.
सुरसेनाऽभवद्भीमं पातालोत्तालतालुकम् २१.
शक्रो दीनत्वमापन्नः श्रांतवाहनवाहनः २१.
किमनंतरमेवास्ति कर्तव्यं नो विशेषतः २१.
ततो हरिरुवाचेदं वज्रायुधमुदारधीः २१.
मा गच्छ मोहं मा गच्छ क्षिप्रमस्त्रं स्मर प्रभो २१.
एतस्मिन्नंतरे दैत्यो विवृतास्योऽग्रसत्क्षणात् २१.
ततो नारायणास्त्रं च निपपातास्य वक्षसि २१.
ततः स्वतेजसा रूपं तस्य दैत्यस्य नाशितंम् २१.
गगनस्थः स दैत्येन्द्रः शस्त्राशनिमतींद्रियः २१.
तथा परश्वधांश्चक्रवज्रबाणान्समुद्गरान् २१.
ववर्ष दानवो रोषादवध्यानक्षयानपि २१.
बाहुभिर्धरणी पूर्णा शिरोभिश्च सकुंडलैः २१.
भग्नेषा दंडचक्राक्षै रथैभिः सह २१.
रुधिरौघह्रदावर्ता गजदेहशिलोच्चया २१.
श्रृगालगृध्रध्वांक्षाणां परमानंदकारिणी २१.
असंभ्रमाभिर्भार्याभिः सह नृत्यद्भिरुद्धता २१.
पिशाचो यत्र चाश्वानां खुरानेकत्र चाकरोत् २१.
प्रसादयंति बहुधा महाकर्णार्थकोविदाः २१.
आकल्पमेवं योद्धव्यमस्माकं तृप्तिहेतवे २१.
म्रियते यदि संग्रामे धातुर्दद्भोऽपयाचितम् २१.