संध्यमाने ततश्चास्त्रे निश्चेरुः पावकार्चिषः २१.
तैर्यंत्रैरभवद्युद्धमंतरिक्षं वितारकम् २१.
शैलास्त्रं मुमुचे जंभो यंत्रसंघातचूर्णनम् २१.
त्वाष्ट्रोण निर्मितान्याशु यानि यंत्राणि भारत २१.
ततः शिरस्सु देवानां शिलाः पेतुर्महाजवाः २१.
ततो वज्रास्त्रमकरोत्सस्राक्षः पुरंदरः २१.
ततः प्रशांतैः शैलास्त्रैर्जंभो भूधरसन्निभः २१.
ऐषीकेणागमन्नाशं वज्रास्त्रं गिरिदारणम् २१.
जज्वलुर्देवसैन्यानि सस्यंदनगजानि च २१.
आग्नेयमस्त्रमकरोद्बलहा पाकशासनः २१.
तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृंभत २१.
तः प्रतिहतास्त्रोऽसौ दैत्येंद्रः प्रतिभानवान् २१.
ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः २१.
करींद्रकरतुल्याभिर्धाराभिः पूरितं जगत् २१.
वायव्यमस्त्रमतुलं तेन मेघा ययुः क्षयम् २१.
बभूवानाविलं व्योम नीलोत्पलदलप्रभम् २१.
न शेकुस्तत्र ते स्थातुं रणेऽपि बलिनोऽपि ये २१.
मारुतप्रतिघातार्थं दानवानां बलाधिपः २१.
ततः प्रशमिते वायौ दैत्येंद्र पर्वताकृतौ २१.
तयाशन्या पतितया दैत्यस्याच लरूपिणः २१.
ततः सा दानवेंद्रस्य शैलमाया न्यवर्तत २१.
बभूव कुंजरो भीमो महाशैलमयाकृतिः २१.
बभंज पृष्ठतः कांश्चित्करेणाकृष्य दानवः २१.
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह २१.
हृष्टदंष्ट्राट्टहासानि क्रकचाभनखानि च २१.
ततश्चाशीविषो घोरोऽभवत्फणसमाकुलः २१.
ततोऽस्त्रं गारुडं चक्रे शक्रः संप्रहरन्रॅणे २१.
तैर्गरुत्मद्भिरासाद्य जंभं भुजगरूपिणम् २१.
मायायाम च प्रनष्टायां ततो जंभो महासुरः २१.
विवृत्तनयनो ग्रस्तुमियेष सुरपुंगवान् २१.