मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः
या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम्
ऋषिदेवासुरगणैर्जपहोमपरायणैः 2.8.3.
षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम्
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम्
स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति
भूलोके चांतरिक्षे च दिवि तीर्थानि यानि वै
विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः
शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता
हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि
स्वर्गद्वारे वियुज्येत स याति परमां गतिम्
सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयंति ये
यावत्पापानि देहेन ये कुर्वंति जनाः क्षितौ ।। 2.8.3.
ज्येष्ठे मासि सिते पक्षे पंचदश्यां विशेषतः
तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः
तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम्
उत्पत्तिं च तथा चंद्रव्रतस्योद्यापने विधिम्
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः
क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः
तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम्
वासुदेवप्रसादेन तत्स्थानं जातमद्भुतम्
सर्वेषामिव भूतानां भर्तुर्मोक्षस्य सर्वदा
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः 2.8.3.
यथा धर्ममवाप्नोति अन्यत्र न तथा क्वचित्
सर्वकामफलप्राप्तिर्जायते प्राणिनां सदा दानादिकं विप्रपूजा दंपत्योश्च विशेषतः
सर्वयज्ञाधिकफलं सर्वतीर्थावगाहनम्
तत्सर्वं जायते पुण्यं प्राणिनामस्य दर्शनात्
उद्यापनविधिश्चात्र नृभिर्द्विजपुरस्सरम्
गते वर्षद्वये सार्द्धे पंचपक्षे दिनद्वये
त्र्यधिके वा अशीत्यब्दे चतुर्मासयुते ततः उद्यापनं प्रकर्त्तव्यं तेन यात्रा प्रयत्नतः